otherhindi
Durga Stuti
Artist: S. Roy
Durga Stuti
Tap to play
Lyrics with Meaning
View lyrics page →Original
ॐ खड् गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः शंखं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुंह मधुं कैटभम्
Verse 2
Original
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्
Verse 3
Original
घण्टाशूलहलानि शङ् खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्