Ganesh Stuti
Complete lyrics with original text, transliteration, and meaning, 6 sections
Shri Ganesh Stuti
Original
मुदाकरात्तमोदकं सदाविमुक्तिसाधकम् कलाधरावतंसकं विलासिलोकरक्षकम् अनायकैकनायकं विनाशितेभदैत्यकम् न ताशुभाशुनाशकम् नमामि तं विनायकम्
Verse 2
Original
न तेतरातिभिक्करं नबोधितार्कभास्वरम् न मत्सुरारिनिर्जरं नताधिकापदुद्धरम् सुरेश्वरं निधेश्वरं गजेश्वरं गणेश्वरम् महेश्वरं तमाश्रये परात्परं निरन्तरम् नमामि तं विनायकम्
Verse 3
Original
समस्तलोकशंकरं निरस्तदैत्यकुंजरम् दरेतरोदरं वरं वरे भवद्रमक्षरम् कृपाकरं क्षमाकरं मुदाकरं यशस्करम् मनस्करं नमस्कृतं नमस्कारोमि भास्वरम् नमामि तं विनायकम्
Verse 4
Original
अकिञ्चनातिमार्जनं चिरन्तनोक्तिभाजनम् पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् नमामि तं विनायकम्
Verse 5
Original
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् हृदन्तरे निरन्तरं वसन्तमेव योगिना तमेकदन्तमेव तं विचिन्तयामि सन्ततम् नमामि तं विनायकम् नमामि तं विनायकम्
Verse 6
Original
महागणेशपञ्चरत्नमादरेण योन्द्वहं प्रजल्पतिः प्रभातके हृदि स्मरन् गणेश्वरम् अलोगतां दोषतां सुसाहितिं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति शोचिराम् मभ्युपैति शोचिराम् नमामि तं विनायकम् मभ्युपैति शोचिराम् नमामि तं विनायकम्