Lord Ganesha

Artist: Chippakurthi Devadas

Share:

Lord Ganesha

Tap to play

Lyrics with Meaning

View lyrics page →

Verse 1

Original

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।

Verse 2

Original

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

Verse 3

Original

अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् । पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् । प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम् । कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥ नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् । अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।

Verse 4

Original

हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् । तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ 5 ॥ महागणेश पञ्चरत्नमादरेण योऽन्वहं । प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रताम् । समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ॥ 6 ॥

Verse 5

Original

श्रीमत् शंकर भगित्पादकृत श्रीगणेशपञ्चरत्न स्तोत्रम् संपूणकम्। गुरिले गुणवते गणपतये) ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने । गीतलीनाय गीताश्रयाय गीतवाद्यपटवे ।

Verse 6

Original

गेयचरिताय गायकवराय गन्धर्वप्रियकृते । गायकाधीनविग्रहाय गङ्गाजलप्रणयवते । गौरीस्तनन्धयाय गौरीहृदयनन्दनाय । गौरभानुसुताय गौरीगणेश्वराय । गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि । गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि ।

Verse 7

Original

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥ एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

G. Gayathri Devi

Lord Ganesha and Goddess LakshmiFestival

Get the daily panchang & festival updates

Join our free newsletter, no spam, unsubscribe anytime.